॥ श्रीः ॥
1.104. अध्यायः 104
Mahabharata - Adi Parva - Chapter Topics
समयबन्धपूर्वकं गङ्गाशान्तन्वोर्विवाहः॥ 1 ॥
Mahabharata - Adi Parva - Chapter Text
वैशम्पायन उवाच। 1-104-0x(641)(4613)
एतच्छ्रुत्वा वचो राज्ञः सस्मितं मृदु वल्गु च।
यशस्विनी च साऽगच्छच्छान्तनोर्भूतये तदा॥ 1-104-1(4614)
सा तु दृष्ट्वा नृपश्रेष्ठं चरन्तं तीरमाश्रितम्।
वसूनां समयं स्मृत्वाऽथाभ्यगच्छदनिन्दिता॥ 1-104-2(4615)
प्रजार्थिनी राजपुत्रं शान्तनुं पृथिवीपतिम्।
प्रतीपवचनं चापि संस्मृत्यैव स्वयं नृपम्॥ 1-104-3(4616)
कालोऽयमिति मत्वा सा वसूनां शापचोदिता।
उवाच चैव राज्ञः सा ह्लादयन्ती मनो गिरा॥ 1-104-4(4617)
गङ्गोवाच। 1-104-5x(642)
भविष्यामि महीपाल महिषी ते वशानुगा।
न तु त्वं वा द्वितीयो वा ज्ञातुमिच्छेत्कथंचन॥ 1-104-5(4618)
यत्तु कुर्यामहं राजञ्शुभं वा यदि वाऽशुभम्।
न तद्वारयितव्याऽस्मि न वक्तव्या तथाऽप्रियम्॥ 1-104-6(4619)
एवं हि वर्तमानेऽहं त्वयि वत्स्यामि पार्थिव।
वारिता विप्रियं चोक्ता त्यजेयं त्वामसंशयम्॥ 1-104-7(4620)
एष मे समयो राजन्भज मां त्वं यथेप्सितम्।
अनुनीताऽस्मि ते पित्रा भर्ता मे त्वं भव प्रभो॥ 1-104-8(4621)
वैशम्पायन उवाच। 1-104-9x(643)
तथेति सा यदा तूक्ता तदा भरतसत्तम।
प्रहर्षमतुलं लेभे प्राप्य तं पार्थिवोत्तमम्॥ 1-104-9(4622)
प्रतिज्ञाय तु तत्तस्यास्तथेति मनुजाधिपः।
रथमारोप्य तां देवीं जगाम स तया सह॥ 1-104-10(4623)
सा च शान्तनुमभ्यागात्साक्षाल्लक्ष्मीरिवापरा।
आसाद्य शान्तनुस्तां च बुभुजे कामतो वशी॥ 1-104-11(4624)
न प्रष्टव्येति मन्वानो न स तां किंचिदूचिवान्।
स तस्याः शीलवृत्तेन रूपौदार्यगुणेन च॥ 1-104-12(4625)
उपचारेण च रहस्तुतोष जगतीपतिः।
स राजा परमप्रीतः परमस्त्रीप्रलालितः॥ 1-104-13(4626)
दिव्यरूपा हि सा देवी गङ्गा त्रिपथगामिनी।
मानुषं विग्रहं कृत्वा श्रीमन्तं वरवर्णिनी॥ 1-104-14(4627)
भाग्योपनतकामस्य भार्या चोपनताऽभवत्।
शन्तनोर्नृपसिंहस्य देवराजसमद्युतेः॥ 1-104-15(4628)
संभोगस्नेहचातुर्यैर्हावलास्यैर्मनोहरैः।
राजानं रमयामास यथा रज्येत स प्रभुः॥ 1-104-16(4629)
स राजा रतिसक्तोऽभूदुत्तमस्त्रीगुणैर्हृतः॥ ॥ 1-104-17(4630)